Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia
Advertiesment

॥शनिवज्रपंजरकवचम्‌॥

हमें फॉलो करें ॥शनिवज्रपंजरकवचम्‌॥
WD

नीलम्बरो नीलवपुः कीरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्‌।
चतुर्भजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः॥1॥

ब्रह्मा उवा
श्रृणुध्वमृषयः सर्वे शनिपीडाहरं महत्‌।
कवचं शनिराजस्य सौरेदिमनुत्तमम्‌॥2॥

कवचं देवतावासं वज्रपंजरसंज्ञकम्‌।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम्‌॥3॥

ॐ श्रीशनैश्चतरः पातु भालं मे सूर्यनन्दनः ।
नेत्रे छायात्मजः पातु पातु कणौं यमानुजः॥4॥

नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः॥5॥

स्कन्धौ पातु शनिश्चैव करौ पातु-शुभप्रदः।
वक्षः पातु यमभ्राता कुक्षिं पात्वसित्स्तथा॥6॥

नाभिं ग्रहपतिः पातु मन्दः पातु मटिं तथा।
ऊरू ममाऽन्तकः पातु यमो जानुयुगं तथा॥7॥

पदौ मन्दगतिः पातु सर्वांगन्‌ पातु पिप्पलः ।
अंगोपांगानि सर्वाणि रक्षेन्‌ मे सूर्यनन्दनः॥8॥

इत्येतत्‌ कवचं दिव्यं पठत्‌ सूर्यसुतस्य यः।
न तस्य जायते पीडा प्रीतो भवति सूर्यजः॥9॥

व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा ।
कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः॥10॥

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे।
कवचं पठते नित्यं न पीडा जायते क्वचित्‌॥11॥

इत्येत्‌ कवचं दिव्यं सौर्रेर्यन्निर्मितं पुरा।
द्वादशा-ऽष्टम्‌ -जन्मस्थ-दोषान्नाशयते सदा ।

जन्मलग्नस्थितान्‌ दोषान्‌ सर्वान्नाशयते प्रभुः ॥12॥

॥इति श्री ब्रह्माण्डपुराणे ब्रह्म-नारदसंवादे शनिवज्रपंजरकवचम्‌ सम्पूर्णम्‌॥

Share this Story:

Follow Webdunia Hindi