Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia
Advertiesment

॥ परशुरामाष्टाविंशतिनामस्तोत्रम्‌ ॥

हमें फॉलो करें ॥ परशुरामाष्टाविंशतिनामस्तोत्रम्‌ ॥
ऋषिरुवाच-
WD

यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम्‌।
त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम्‌॥1॥
दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत्‌।
तस्य नामानि पुण्यानि वच्मि ते पुरुषर्षभ॥2॥
भू-भार-हरणार्थाय माया-मानुष-विग्रहः।
जनार्दनांशसम्भूतः स्थित्युत्पत्तयप्ययेश्वरः॥3॥
भार्गवो जामदग्न्यश्च पित्राज्ञापरिपालकः।
मातृप्राणप्रदो धीमान्‌ क्षत्रियान्तकरः प्रभु॥4॥
रामः परशुहस्तश्च कार्तवीर्यमदापह।
रेणुकादुःखशोकघ्नो विशोकः शोकनाशन॥5॥
नवीन-नीरद-श्यामो रक्तोत्पलविलोचनः।
घोरो दण्डधरो धीरो ब्रह्मण्यो ब्राह्मणप्रियस॥6॥
तपोधनो महेन्द्रादौ न्यस्तदण्डः प्रणान्तधीः।
उपगीयमानचरित-सिद्ध-गन्धर्व-चारणै॥7॥
जन्म-मृत्यु-जरा-व्याधि दुःख शोक-भयातिग।
इत्यष्टाविंशतिर्नाम्नामुक्ता स्तोत्रात्मिका शुभा॥8॥
अनया प्रीयतां देवो जामदग्न्यो महेश्वरः।
नेदं स्तोत्रमशान्ताय नादान्तायातपस्विने॥9॥
नावेदविदुषे वाच्यमशिष्याय खलाय च।
नासूयकायानृजवे न चाऽनिर्दिष्टकारिणे॥10॥
इदं प्रियाय पुत्राय शिष्यायानुगताय च।
रहस्यधर्मं वक्तव्यं नाऽन्यस्मै तु कदाचन॥11॥

॥ इति परशुरामाष्टाविंशतिनामस्तोत्रं सम्पूर्णम्‌ ॥

Share this Story:

Follow Webdunia Hindi