Select Your Language
कृष्णयज्ञ मंत्रन्यास विधि
पुरुषसूक्त न्यास
विनियोग :सहस्रशीर्षेत्यादिषोडशर्चस्य पुरुषसूक्तस्य नारायण ऋषिः आद्यानां पश्चदशानामनुष्टुप्छन्दः यज्ञेन यज्ञमित्यस्य त्रिष्टुप्छन्दः जगद्बीजं नारायणपुरुषो देवता, न्यासे हवने च विनियोगः। ॐ सहस्रशीर्षा. वामकरे। ॐ पुरुष ऽएव. दक्षिणकरे। ॐ एतावानस्य. वामपादे। ॐ त्रिपादूर्ध्व. दक्षिणपादे। ॐ ततो विराडजायत. वामजानौ। ॐ तस्माद्यज्ञात् सर्वहुतः. दक्षिणजानौ। ॐ तस्माद्यज्ञात् सर्वहुतऽऋचः. वामकट्याम्। ॐ तस्मादश्वा. दक्षिणकट्याम। ॐ तं यज्ञं बर्हिषि. नाभौ। ॐ यत्पुरुषं व्यदधुः. हृदये। ॐ ब्राह्मणोऽस्य. वामबाहौ । ॐ चन्द्रमा मनसः. दक्षिणबाहौ। ॐ नाभ्या ऽआसीदन्त. कण्ठे। ॐ यत्पुरुषेण हविषा. मुखे। ॐ सप्तास्यासन्. अक्ष्णोः। ॐ यज्ञेन यज्ञम् मूर्ध्नि।दोबारा : ब्राह्मणोऽस्य. हृदयाय नमः। चन्द्रमा मनसः. शिरसे स्वाहा। नाभ्या ऽआसीदन्त. कवचाय हुम्। यत्पुरुषेण हविषा. नेत्रत्रयाय वौषट्। सप्तास्यासन्. शिखायै वषट्। यज्ञेन यज्ञम्. अस्त्राय फट्।ध्यान :
शिखि-मुकुट-विशेषं नील-पद्मांगदेशंविधिमुख-कृतकेशं कौस्तुभापीत-वेशम्।मधुर-रव-कलेशं शं भजे भ्रातृशेषंव्रजजन-वनितेशं माधवं राधिकेशम्॥॥ कृष्णयागमंत्रन्यासविधिः संपूर्णम् ॥