Select Your Language

Notifications

webdunia
webdunia
webdunia

आज के शुभ मुहूर्त

(वरुथिनी एकादशी)
  • तिथि- वैशाख कृष्ण एकादशी
  • शुभ समय- 7:30 से 10:45, 12:20 से 2:00
  • व्रत/मुहूर्त- वरुथिनी एकादशी, नर्मदा पंचकोशी यात्रा, प्रभु वल्लभाचार्य ज.
  • राहुकाल-प्रात: 10:30 से 12:00 बजे तक
webdunia
Advertiesment

शनि जयंती पर जरूर पढ़ें शनि सहस्रनाम स्तोत्रम्‌

हमें फॉलो करें शनि जयंती पर जरूर पढ़ें शनि सहस्रनाम स्तोत्रम्‌
अस्य श्रीशनैश्चरसहस्रनामस्तोत्र महामन्त्रस्य ।
कश्यप ऋषिः ।  अनुष्टुप्‌ छन्दः ।
शनैश्चरो देवता ।  शम्‌ बीजम्‌ ।
नम्‌ शक्तिः ।  मम्‌ कीलकम्‌ ।
शनैश्चरप्रसादासिद्ध्यर्थे जपे विनियोगः ।
शनैश्चराय अङ्गुष्ठाभ्यां नमः ।
मन्दगतये तर्जनीभ्यां नमः ।
अधोक्षजाय मध्यमाभ्यां नमः ।
सौरये अनामिकाभ्यां नमः ।
शुष्कोदराय कनिष्ठिकाभ्यां नमः ।
छायात्मजाय करतलकरपृष्ठाभ्यां नमः ।
शनैश्चराय हृदयाय नमः ।
मन्दगतये शिरसे स्वाहा ।
अधोक्षजाय शिखायै वषट् ।
सौरये कवचाय हुम्‌ ।
शुष्कोदराय नेत्रत्रयाय वौषट् ।
छायात्मजाय अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ।
 
      । ध्यानम्‌ ।
चापासनो गृध्रधरस्तु नीलः
प्रत्यङ्मुखः काश्यप गोत्रजातः ।
सशूलचापेषु गदाधरोऽव्यात्‌
सौराष्ट्रदेशप्रभवश्च शौरिः ॥
नीलाम्बरो नीलवपुः किरीटी
गृध्रासनस्थो विकृताननश्च ।
केयूरहारादिविभूषिताङ्गः
सदाऽस्तु मे मन्दगतिः प्रसन्नः ॥
ॐ ॥ अमिताभाष्यघहरः अशेषदुरितापहः ।
अघोररूपोऽतिदीर्घकायोऽशेषभयानकः ॥ 1॥
अनन्तो अन्नदाता चाश्वत्थमूलजपप्रियः ।
अतिसम्पत्प्रदोऽमोघः अन्यस्तुत्या प्रकोपितः ॥ 2॥
अपराजितो अद्वितीयः अतितेजोऽभयप्रदः ।
अष्टमस्थोऽञ्जननिभः अखिलात्मार्कनन्दनः ॥ 3॥
अतिदारुण अक्षोभ्यः अप्सरोभिः प्रपूजितः ।
अभीष्टफलदोऽरिष्टमथनोऽमरपूजितः ॥ 4॥
अनुग्राह्यो अप्रमेय पराक्रम विभीषणः ।
असाध्ययोगो अखिल दोषघ्नः अपराकृतः ॥ 5॥
अप्रमेयोऽतिसुखदः अमराधिपपूजितः ।
अवलोकात्‌ सर्वनाशः अश्वत्थाम द्विरायुधः ॥ 6॥
अपराधसहिष्णुश्च अश्वत्थाम सुपूजितः ।
अनन्तपुण्यफलदो अतृप्तोऽतिबलोऽपि च ॥ 7॥
अवलोकात्‌ सर्ववन्द्यः अक्षीणकरुणानिधिः ।
अविद्यामूलनाशश्च अक्षय्यफलदायकः ॥ 8॥
आनन्दपरिपूर्णश्च आयुष्कारक एव च ।
आश्रितेष्टार्थवरदः आधिव्याधिहरोऽपि च ॥ 9॥
आनन्दमय आनन्दकरो आयुधधारकः ।
आत्मचक्राधिकारी च आत्मस्तुत्यपरायणः ॥ 10॥
आयुष्करो आनुपूर्व्यः आत्मायत्तजगत्त्रयः ।
आत्मनामजपप्रीतः आत्माधिकफलप्रदः ॥ 11॥
आदित्यसंभवो आर्तिभञ्जनो आत्मरक्षकः ।
आपद्बान्धव आनन्दरूपो आयुःप्रदोऽपि च ॥ 12॥
आकर्णपूर्णचापश्च आत्मोद्दिष्ट द्विजप्रदः ।
आनुकूल्यो आत्मरूप प्रतिमादान सुप्रियः ॥ 13॥
आत्मारामो आदिदेवो आपन्नार्ति विनाशनः ।
इन्दिरार्चितपादश्च इन्द्रभोगफलप्रदः ॥ 14॥
इन्द्रदेवस्वरूपश्च इष्टेष्टवरदायकः ।
इष्टापूर्तिप्रद इन्दुमतीष्टवरदायकः ॥ 15॥
इन्दिरारमणप्रीत इन्द्रवंशनृपार्चितः ।
इहामुत्रेष्टफलद इन्दिरारमणार्चितः ॥ 16॥
ईद्रिय ईश्वरप्रीत ईषणात्रयवर्जितः ।
उमास्वरूप उद्बोध्य उशना उत्सवप्रियः ॥ 17॥
उमादेव्यर्चनप्रीत उच्चस्थोच्चफलप्रदः ।
उरुप्रकाश उच्चस्थ योगद उरुपराक्रमः ॥ 18॥
ऊर्ध्वलोकादिसञ्चारी ऊर्ध्वलोकादिनायकः ।
ऊर्जस्वी ऊनपादश्च ऋकाराक्षरपूजितः ॥ 19॥
ऋषिप्रोक्त पुराणङ्य़ ऋषिभिः परिपूजितः ।
ऋग्वेदवन्द्य ऋग्रूपी ऋजुमार्ग प्रवर्तकः ॥ 20॥
लुळितोद्धारको लूत भवपाशप्रभञ्जनः ।
लूकाररूपको लब्धधर्ममार्गप्रवर्तकः ॥ 21॥
एकाधिपत्यसाम्राज्यप्रद एनौघनाशनः ।
एकपाद्येक एकोनविंशतिमासभुक्तिदः ॥ 22॥
एकोनविंशतिवर्षदश एणाङ्कपूजितः ।
ऐश्वर्यफलद ऐन्द्र ऐरावतसुपूजितः ॥ 23॥
ओंकार जपसुप्रीत ओंकार परिपूजितः ।
ओंकारबीज औदार्य हस्त औन्नत्यदायकः ॥ 24॥
औदार्यगुण औदार्य शील औषधकारकः ।
करपङ्कजसन्नद्धधनुश्च करुणानिधिः ॥ 25॥
कालः कठिनचित्तश्च कालमेघसमप्रभः ।
किरीटी कर्मकृत्‌ कारयिता कालसहोदरः ॥ 26॥
कालाम्बरः काकवाहः कर्मठः काश्यपान्वयः ।
कालचक्रप्रभेदी च कालरूपी च कारणः ॥ 27॥
कारिमूर्तिः कालभर्ता किरीटमकुटोज्वलः ।
कार्यकारण कालङ्य़ः काञ्चनाभरथान्वितः ॥ 28॥
कालदंष्ट्रः क्रोधरूपः कराळी कृष्णकेतनः ।
कालात्मा कालकर्ता च कृतान्तः कृष्णगोप्रियः ॥ 29॥
कालाग्निरुद्ररूपश्च काश्यपात्मजसम्भवः ।
कृष्णवर्णहयश्चैव कृष्णगोक्षीरसुप्रियः ॥ 30॥
कृष्णगोघृतसुप्रीतः कृष्णगोदधिषुप्रियः ।
कृष्णगावैकचित्तश्च कृष्णगोदानसुप्रियः ॥ 31॥
कृष्णगोदत्तहृदयः कृष्णगोरक्षणप्रियः ।
कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकः ॥ 32॥
कृष्णगोदान शान्तस्य सर्वशान्ति फलप्रदः ।
कृष्णगोस्नान कामस्य गङ्गास्नान फलप्रदः ॥ 33॥
कृष्णगोरक्षणस्याशु सर्वाभीष्टफलप्रदः ।
कृष्णगावप्रियश्चैव कपिलापशुषु प्रियः ॥ 34॥
कपिलाक्षीरपानस्य सोमपानफलप्रदः ।
कपिलादानसुप्रीतः कपिलाज्यहुतप्रियः ॥ 35॥
कृष्णश्च कृत्तिकान्तस्थः कृष्णगोवत्ससुप्रियः ।
कृष्णमाल्याम्बरधरः कृष्णवर्णतनूरुहः ॥ 36॥
कृष्णकेतुः कृशकृष्णदेहः कृष्णाम्बरप्रियः ।
क्रूरचेष्टः क्रूरभावः क्रूरदंष्ट्रः कुरूपि च ॥ 37॥
कमलापति संसेव्यः कमलोद्भवपूजितः ।
कामितार्थप्रदः कामधेनु पूजनसुप्रियः ॥ 38॥
कामधेनुसमाराध्यः कृपायुष विवर्धनः ।
कामधेन्वैकचित्तश्च कृपराज सुपूजितः ॥ 39॥
कामदोग्धा च क्रुद्धश्च कुरुवंशसुपूजितः ।
कृष्णाङ्गमहिषीदोग्धा कृष्णेन कृतपूजनः ॥ 40॥
कृष्णाङ्गमहिषीदानप्रियः कोणस्थ एव च ।
कृष्णाङ्गमहिषीदानलोलुपः कामपूजितः ॥ 41॥
क्रूरावलोकनात्सर्वनाशः कृष्णाङ्गदप्रियः ।
खद्योतः खण्डनः खड्गधरः खेचरपूजितः ॥ 42॥
खरांशुतनयश्चैव खगानां पतिवाहनः ।
गोसवासक्तहृदयो गोचरस्थानदोषहृत्‌ ॥ 43॥
गृहराश्याधिपश्चैव गृहराज महाबलः ।
गृध्रवाहो गृहपतिर्गोचरो गानलोलुपः ॥ 44॥
घोरो घर्मो घनतमा घर्मी घनकृपान्वितः ।
घननीलाम्बरधरो ङादिवर्ण सुसंङ्य़ितः ॥ 45॥
चक्रवर्तिसमाराध्यश्चन्द्रमत्या समर्चितः ।
चन्द्रमत्यार्तिहारी च चराचर सुखप्रदः ॥ 46॥
चतुर्भुजश्चापहस्तश्चराचरहितप्रदः ।
छायापुत्रश्छत्रधरश्छायादेवीसुतस्तथा ॥ 47॥
जयप्रदो जगन्नीलो जपतां सर्वसिद्धिदः ।
जपविध्वस्तविमुखो जम्भारिपरिपूजितः ॥ 48॥
जम्भारिवन्द्यो जयदो जगज्जनमनोहरः ।
जगत्त्रयप्रकुपितो जगत्त्राणपरायणः ॥ 49॥
जयो जयप्रदश्चैव जगदानन्दकारकः ।
ज्योतिश्च ज्योतिषां श्रेष्ठो ज्योतिःशास्त्र प्रवर्तकः ॥ 50॥
झर्झरीकृतदेहश्च झल्लरीवाद्यसुप्रियः ।
ङ्य़ानमूर्तिर्ङ्य़ानगम्यो ङ्य़ानी ङ्य़ानमहानिधिः ॥ 51॥
ङ्य़ानप्रबोधकश्चैव ङ्य़ानदृष्ट्यावलोकितः ।
टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ॥ 52॥
टङ्कारकारकश्चैव टङ्कृतो टाम्भदप्रियः ।
ठकारमय सर्वस्वष्ठकारकृतपूजितः ॥ 53॥
ढक्कावाद्यप्रीतिकरो डमड्डमरुकप्रियः ।
डम्बरप्रभवो डम्भो ढक्कानादप्रियङ्करः ॥ 54॥
डाकिनी शाकिनी भूत सर्वोपद्रवकारकः ।
डाकिनी शाकिनी भूत सर्वोपद्रवनाशकः ॥ 55॥
ढकाररूपो ढाम्भीको णकारजपसुप्रियः ।
णकारमयमन्त्रार्थो णकारैकशिरोमणिः ॥ 56॥
णकारवचनानन्दो णकारकरुणामयः ।
णकारमय सर्वस्वो णकारैकपरायणः ॥ 57॥
तर्जनीधृतमुद्रश्च तपसां फलदायकः ।
त्रिविक्रमनुतश्चैव त्रयीमयवपुर्धरः ॥ 58॥
तपस्वी तपसा दग्धदेहस्ताम्राधरस्तथा ।
त्रिकालवेदितव्यश्च त्रिकालमतितोषितः ॥ 59॥
तुलोच्चयस्त्रासकरस्तिलतैलप्रियस्तथा ।
तिलान्न सन्तुष्टमनास्तिलदानप्रियस्तथा ॥ 60॥
तिलभक्ष्यप्रियश्चैव तिलचूर्णप्रियस्तथा ।
तिलखण्डप्रियश्चैव तिलापूपप्रियस्तथा ॥ 61॥
तिलहोमप्रियश्चैव तापत्रयनिवारकः ।
तिलतर्पणसन्तुष्टस्तिलतैलान्नतोषितः ॥ 62॥
तिलैकदत्तहृदयस्तेजस्वी तेजसान्निधिः ।
तेजसादित्यसङ्काशस्तेजोमय वपुर्धरः ॥ 63॥
तत्त्वङ्य़स्तत्त्वगस्तीव्रस्तपोरूपस्तपोमयः ।
तुष्टिदस्तुष्टिकृत्‌ तीक्ष्णस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ 64॥
तिलदीपप्रियश्चैव तस्य पीडानिवारकः ।
तिलोत्तमामेनकादिनर्तनप्रिय एव च ॥ 65॥
त्रिभागमष्टवर्गश्च स्थूलरोमा स्थिरस्तथा ।
स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ॥ 66॥
दशरथार्चितपादश्च दशरथस्तोत्रतोषितः ।
दशरथ प्रार्थनाक्ळिप्त दुर्भिक्ष विनिवारकः ॥ 67॥
दशरथ प्रार्थनाक्ळिप्त वरद्वय प्रदायकः ।
दशरथस्वात्मदर्शी च दशरथाभीष्टदायकः ॥ 68॥
दोर्भिर्धनुर्धरश्चैव दीर्घश्मश्रुजटाधरः ।
दशरथस्तोत्रवरदो दशरथाभीप्सितप्रदः ॥ 69॥
दशरथस्तोत्रसन्तुष्टो दशरथेन सुपूजितः ।
द्वादशाष्टमजन्मस्थो देवपुङ्गवपूजितः ॥ 70॥
देवदानवदर्पघ्नो दिनं प्रतिमुनिस्तुतः ।
द्वादशस्थो द्वादशात्मा सुतो द्वादश नामभृत्‌ ॥ 71॥
द्वितीयस्थो द्वादशार्कसूनुर्दैवङ्य़पूजितः ।
दैवङ्य़चित्तवासी च दमयन्त्या सुपूजितः ॥ 72॥
द्वादशाब्दंतु दुर्भिक्षकारी दुःस्वप्ननाशनः ।
दुराराध्यो दुराधर्षो दमयन्ती वरप्रदः ॥ 73॥
दुष्टदूरो दुराचार शमनो दोषवर्जितः ।
दुःसहो दोषहन्ता च दुर्लभो दुर्गमस्तथा ॥ 74॥
दुःखप्रदो दुःखहन्ता दीप्तरञ्जित दिङ्मुखः ।
दीप्यमान मुखाम्भोजो दमयन्त्याः शिवप्रदः ॥ 75॥
दुर्निरीक्ष्यो दृष्टमात्र दैत्यमण्डलनाशकः ।
द्विजदानैकनिरतो द्विजाराधनतत्परः ॥ 76॥
द्विजसवर्ािर्तहारी च द्विजराज समर्चितः ।
द्विजदानैकचित्तश्च द्विजराज प्रियङ्करः ॥ 77॥
द्विजो द्विजप्रियश्चैव द्विजराजेष्टदायकः ।
द्विजरूपो द्विजश्रेष्ठो दोषदो दुःसहोऽपि च ॥ 78॥
देवादिदेवो देवेशो देवराज सुपूजितः ।
देवराजेष्ट वरदो देवराज प्रियङ्करः ॥ 79॥
देवादिवन्दितो दिव्यतनुर्देवशिखामणिः ।
देवगानप्रियश्चैव देवदेशिकपुङ्गवः ॥ 80॥
द्विजात्मजासमाराध्यो ध्येयो धर्मी धनुर्धरः ।
धनुष्मान्‌ धनदाता च धर्माधर्मविवर्जितः ॥ 81॥
धर्मरूपो धनुर्दिव्यो धर्मशास्त्रात्मचेतनः ।
धर्मराज प्रियकरो धर्मराज सुपूजितः ॥ 82॥
धर्मराजेष्टवरदो धर्माभीष्टफलप्रदः ।
नित्यतृप्तस्वभावश्च नित्यकर्मरतस्तथा ॥ 83॥
निजपीडार्तिहारी च निजभक्तेष्टदायकः ।
निर्मासदेहो नीलश्च निजस्तोत्र बहुप्रियः ॥ 84॥
नळस्तोत्र प्रियश्चैव नळराजसुपूजितः ।
नक्षत्रमण्डलगतो नमतां प्रियकारकः ॥ 85॥
नित्यार्चितपदाम्भोजो निजाङ्य़ा परिपालकः ।
नवग्रहवरो नीलवपुर्नळकरार्चितः ॥ 86॥
नळप्रियानन्दितश्च नळक्षेत्रनिवासकः ।
नळपाक प्रियश्चैव नळपद्भञ्जनक्षमः ॥ 87॥
नळसवर्ािर्तहारी च नळेनात्मार्थपूजितः ।
निपाटवीनिवासश्च नळाभीष्टवरप्रदः ॥ 88॥
नळतीर्थसकृत्‌ स्नान सर्वपीडानिवारकः ।
नळेशदर्शनस्याशु साम्राज्यपदवीप्रदः ॥ 89॥
नक्षत्रराश्यधिपश्च नीलध्वजविराजितः ।
नित्ययोगरतश्चैव नवरत्नविभूषितः ॥ 90॥
नवधा भज्यदेहश्च नवीकृतजगत्त्रयः ।
नवग्रहाधिपश्चैव नवाक्षरजपप्रियः ॥ 91॥
नवात्मा नवचक्रात्मा नवतत्त्वाधिपस्तथा ।
नवोदन प्रियश्चैव नवधान्यप्रियस्तथा ॥ 92॥
निष्कण्टको निस्पृहश्च निरपेक्षो निरामयः ।
नागराजार्चितपदो नागराजप्रियङ्करः ॥ 93॥
नागराजेष्टवरदो नागाभरण भूषितः ।
नागेन्द्रगान निरतो नानाभरणभूषितः ॥ 94॥
नवमित्र स्वरूपश्च नानाश्चर्यविधायकः ।
नानाद्वीपाधिकर्ता च नानालिपिसमावृतः ॥ 95॥
नानारूप जगत्‌ स्रष्टा नानारूपजनाश्रयः ।
नानालोकाधिपश्चैव नानाभाषाप्रियस्तथा ॥ 96॥
नानारूपाधिकारी च नवरत्नप्रियस्तथा ।
नानाविचित्रवेषाढ्यो नानाचित्र विधायकः ॥ 97॥
नीलजीमूतसङ्काशो नीलमेघसमप्रभः ।
नीलाञ्जनचयप्रख्यो नीलवस्त्रधरप्रियः ॥ 98॥
नीचभाषा प्रचारङ्य़ो नीचे स्वल्पफलप्रदः ।
नानागम विधानङ्य़ो नानानृपसमावृतः ॥ 99॥
नानावर्णाकृतिश्चैव नानावर्णस्वरार्तवः ।
नागलोकान्तवासी च नक्षत्रत्रयसंयुतः ॥ 100॥

ALSO READ: शनि की कृपा चाहिए तो एक बार इन्हें आजमाएं, पढ़ें 10 उपाय

 


नभादिलोकसम्भूतो नामस्तोत्रबहुप्रियः ।
नामपारायणप्रीतो नामार्चनवरप्रदः ॥ 101॥
नामस्तोत्रैकचित्तश्च नानारोगार्तिभञ्जनः ।
नवग्रहसमाराध्यो नवग्रह भयापहः ॥ 102॥
नवग्रहसुसम्पूज्यो नानावेद सुरक्षकः ।
नवग्रहाधिराजश्च नवग्रहजपप्रियः ॥ 103॥
नवग्रहमयज्योतिर्नवग्रह वरप्रदः ।
नवग्रहाणामधिपो नवग्रह सुपीडितः ॥ 104॥
नवग्रहाधीश्वरश्च नवमाणिक्यशोभितः ।
परमात्मा परब्रह्म परमैश्वर्यकारणः ॥ 105॥
प्रपन्नभयहारी च प्रमत्तासुरशिक्षकः ।
प्रासहस्तः पङ्गुपादः प्रकाशात्मा प्रतापवान्‌ ॥ 106॥
पावनः परिशुद्धात्मा पुत्रपौत्र प्रवर्धनः ।
प्रसन्नात्सर्वसुखदः प्रसन्नेक्षण एव च ॥ 107॥
प्रजापत्यः प्रियकरः प्रणतेप्सितराज्यदः ।
प्रजानां जीवहेतुश्च प्राणिनां परिपालकः ॥ 108॥
प्राणरूपी प्राणधारी प्रजानां हितकारकः ।
प्राङ्य़ः प्रशान्तः प्रङ्य़ावान्‌ प्रजारक्षणदीक्षितः ॥ 109॥
प्रावृषेण्यः प्राणकारी प्रसन्नोत्सववन्दितः ।
प्रङ्य़ानिवासहेतुश्च पुरुषार्थैकसाधनः ॥ 110॥
प्रजाकरः प्रातिकूल्यः पिङ्गळाक्षः प्रसन्नधीः ।
प्रपञ्चात्मा प्रसविता पुराण पुरुषोत्तमः ॥ 111॥
पुराण पुरुषश्चैव पुरुहूतः प्रपञ्चधृत्‌ ।
प्रतिष्ठितः प्रीतिकरः प्रियकारी प्रयोजनः ॥ 112॥
प्रीतिमान्‌ प्रवरस्तुत्यः पुरूरवसमर्चितः ।
प्रपञ्चकारी पुण्यश्च पुरुहूत समर्चितः ॥ 113॥
पाण्डवादि सुसंसेव्यः प्रणवः पुरुषार्थदः ।
पयोदसमवर्णश्च पाण्डुपुत्रार्तिभञ्जनः ॥ 114॥
पाण्डुपुत्रेष्टदाता च पाण्डवानां हितङ्करः ।
पञ्चपाण्डवपुत्राणां सर्वाभीष्टफलप्रदः ॥ 115॥
पञ्चपाण्डवपुत्राणां सर्वारिष्ट निवारकः ।
पाण्डुपुत्राद्यर्चितश्च पूर्वजश्च प्रपञ्चभृत्‌ ॥ 116॥
परचक्रप्रभेदी च पाण्डवेषु वरप्रदः ।
परब्रह्म स्वरूपश्च पराङ्य़ा परिवर्जितः ॥ 117॥
परात्परः पाशहन्ता परमाणुः प्रपञ्चकृत्‌ ।
पातङ्गी पुरुषाकारः परशम्भुसमुद्भवः ॥ 118॥
प्रसन्नात्सर्वसुखदः प्रपञ्चोद्भवसम्भवः ।
प्रसन्नः परमोदारः पराहङ्कारभञ्जनः ॥ 119॥
परः परमकारुण्यः परब्रह्ममयस्तथा ।
प्रपन्नभयहारी च प्रणतार्तिहरस्तथा ॥ 120॥
प्रसादकृत्‌ प्रपञ्चश्च पराशक्ति समुद्भवः ।
प्रदानपावनश्चैव प्रशान्तात्मा प्रभाकरः ॥ 121॥
प्रपञ्चात्मा प्रपञ्चोपशमनः पृथिवीपतिः ।
परशुराम समाराध्यः परशुरामवरप्रदः ॥ 122॥
परशुराम चिरञ्जीविप्रदः परमपावनः ।
परमहंसस्वरूपश्च परमहंससुपूजितः ॥ 123॥
पञ्चनक्षत्राधिपश्च पञ्चनक्षत्रसेवितः ।
प्रपञ्च रक्षितश्चैव प्रपञ्चस्य भयङ्करः ॥ 124॥
फलदानप्रियश्चैव फलहस्तः फलप्रदः ।
फलाभिषेकप्रियश्च फल्गुनस्य वरप्रदः ॥ 125॥
फुटच्छमित पापौघः फल्गुनेन प्रपूजितः ।
फणिराजप्रियश्चैव फुल्लाम्बुज विलोचनः ॥ 126॥
बलिप्रियो बली बभ्रुब्रर्ह्मविष्ण्वीश क्लेशकृत्‌ ।
ब्रह्मविष्ण्वीशरूपश्च ब्रह्मशक्रादिदुर्लभः ॥ 127॥
बासदर्ष्ट्या प्रमेयाङ्गो बिभ्रत्कवचकुण्डलः ।
बहुश्रुतो बहुमतिब्रर्ह्मण्यो ब्राह्मणप्रियः ॥ 128॥
बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ।
बालार्कद्युतिमान्बालो बृहद्वक्षा बृहत्तनुः ॥ 129॥
ब्रह्माण्डभेदकृच्चैव भक्तसर्वार्थसाधकः ।
भव्यो भोक्ता भीतिकृच्च भक्तानुग्रहकारकः ॥ 130॥
भीषणो भैक्षकारी च भूसुरादि सुपूजितः ।
भोगभाग्यप्रदश्चैव भस्मीकृत जगत्त्रयः ॥ 131॥
भयानको भानुसूनुर्भूतिभूषित विग्रहः ।
भास्वद्रतो भक्तिमतां सुलभो भ्रुकुटीमुखः ॥ 132॥
भवभूत गणैःस्तुत्यो भूतसंघसमावृतः ।
भ्राजिष्णुर्भगवान्भीमो भक्ताभीष्टवरप्रदः ॥ 133॥
भवभक्तैकचित्तश्च भक्तिगीतस्तवोन्मुखः ।
भूतसन्तोषकारी च भक्तानां चित्तशोधनः ॥ 134॥
भक्तिगम्यो भयहरो भावङ्य़ो भक्तसुप्रियः ।
भूतिदो भूतिकृद् भोज्यो भूतात्मा भुवनेश्वरः ॥ 135॥
मन्दो मन्दगतिश्चैव मासमेव प्रपूजितः ।
मुचुकुन्द समाराध्यो मुचुकुन्द वरप्रदः ॥ 136॥
मुचुकुन्दार्चितपदो महारूपो महायशाः ।
महाभोगी महायोगी महाकायो महाप्रभुः ॥ 137॥
महेशो महदैश्वर्यो मन्दार कुसुमप्रियः ।
महाक्रतुर्महामानी महाधीरो महाजयः ॥ 138॥
महावीरो महाशान्तो मण्डलस्थो महाद्युतिः ।
महासुतो महोदारो महनीयो महोदयः ॥ 139॥
मैथिलीवरदायी च मार्ताण्डस्य द्वितीयजः ।
मैथिलीप्रार्थनाक्ळिप्त दशकण्ठ शिरोपहृत्‌ ॥ 140॥
मरामरहराराध्यो महेन्द्रादि सुरार्चितः ।
महारथो महावेगो मणिरत्नविभूषितः ॥ 141॥
मेषनीचो महाघोरो महासौरिर्मनुप्रियः ।
महादीर्घो महाग्रासो महदैश्वर्यदायकः ॥ 142॥
महाशुष्को महारौद्रो मुक्तिमार्ग प्रदर्शकः ।
मकरकुम्भाधिपश्चैव मृकण्डुतनयार्चितः ॥ 143॥
मन्त्राधिष्ठानरूपश्च मल्लिकाकुसुमप्रियः ।
महामन्त्र स्वरूपश्च महायन्त्रस्थितस्तथा ॥ 144॥
महाप्रकाशदिव्यात्मा महादेवप्रियस्तथा ।
महाबलि समाराध्यो महर्षिगणपूजितः ॥ 145॥
मन्दचारी महामायी माषदानप्रियस्तथा ।
माषोदन प्रीतचित्तो महाशक्तिर्महागुणः ॥ 146॥
यशस्करो योगदाता यङ्य़ाङ्गोऽपि युगन्धरः ।
योगी योग्यश्च याम्यश्च योगरूपी युगाधिपः ॥ 147॥
यङ्य़भृद् यजमानश्च योगो योगविदां वरः ।
यक्षराक्षसवेताळ कूष्माण्डादिप्रपूजितः ॥ 148॥
यमप्रत्यधिदेवश्च युगपद् भोगदायकः ।
योगप्रियो योगयुक्तो यङ्य़रूपो युगान्तकृत्‌ ॥ 149॥
रघुवंश समाराध्यो रौद्रो रौद्राकृतिस्तथा ।
रघुनन्दन सल्लापो रघुप्रोक्त जपप्रियः ॥ 150॥
रौद्ररूपी रथारूढो राघवेष्ट वरप्रदः ।
रथी रौद्राधिकारी च राघवेण समर्चितः ॥ 151॥
रोषात्सर्वस्वहारी च राघवेण सुपूजितः ।
राशिद्वयाधिपश्चैव रघुभिः परिपूजितः ॥ 152॥
राज्यभूपाकरश्चैव राजराजेन्द्र वन्दितः ।
रत्नकेयूरभूषाढ्यो रमानन्दनवन्दितः ॥ 153॥
रघुपौरुषसन्तुष्टो रघुस्तोत्रबहुप्रियः ।
रघुवंशनृपैःपूज्यो रणन्मञ्जीरनूपुरः ॥ 154॥
रविनन्दन राजेन्द्रो रघुवंशप्रियस्तथा ।
लोहजप्रतिमादानप्रियो लावण्यविग्रहः ॥ 155॥
लोकचूडामणिश्चैव लक्ष्मीवाणीस्तुतिप्रियः ।
लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः ॥ 156॥
लोकाध्यक्षो लोकवन्द्यो लक्ष्मणाग्रजपूजितः ।
वेदवेद्यो वज्रदेहो वज्राङ्कुशधरस्तथा ॥ 157॥
विश्ववन्द्यो विरूपाक्षो विमलाङ्गविराजितः ।
विश्वस्थो वायसारूढो विशेषसुखकारकः ॥ 158॥
विश्वरूपी विश्वगोप्ता विभावसु सुतस्तथा ।
विप्रप्रियो विप्ररूपो विप्राराधन तत्परः ॥ 159॥
विशालनेत्रो विशिखो विप्रदानबहुप्रियः ।
विश्वसृष्टि समुद्भूतो वैश्वानरसमद्युतिः ॥ 160॥
विष्णुर्विरिञ्चिर्विश्वेशो विश्वकर्ता विशाम्पतिः ।
विराडाधारचक्रस्थो विश्वभुग्विश्वभावनः ॥ 161॥
विश्वव्यापारहेतुश्च वक्रक्रूरविवर्जितः ।
विश्वोद्भवो विश्वकर्मा विश्वसृष्टि विनायकः ॥ 162॥
विश्वमूलनिवासी च विश्वचित्रविधायकः ।
विश्वाधारविलासी च व्यासेन कृतपूजितः ॥ 163॥
विभीषणेष्टवरदो वाञ्छितार्थप्रदायकः ।
विभीषणसमाराध्यो विशेषसुखदायकः ॥ 164॥
विषमव्ययाष्टजन्मस्थोऽप्येकादशफलप्रदः ।
वासवात्मजसुप्रीतो वसुदो वासवार्चितः ॥ 165॥
विश्वत्राणैकनिरतो वाङ्मनोतीतविग्रहः ।
विराण्मन्दिरमूलस्थो वलीमुखसुखप्रदः ॥ 166॥
विपाशो विगतातङ्को विकल्पपरिवर्जितः ।
वरिष्ठो वरदो वन्द्यो विचित्राङ्गो विरोचनः ॥ 167॥
शुष्कोदरः शुक्लवपुः शान्तरूपी शनैश्चरः ।
शूली शरण्यः शान्तश्च शिवायामप्रियङ्करः ॥ 168॥
शिवभक्तिमतां श्रेष्ठः शूलपाणी शुचिप्रियः ।
श्रुतिस्मृतिपुराणङ्य़ः श्रुतिजालप्रबोधकः ॥ 169॥
श्रुतिपारग सम्पूज्यः श्रुतिश्रवणलोलुपः ।
श्रुत्यन्तर्गतमर्मङ्य़ः श्रुत्येष्टवरदायकः ॥ 170॥
श्रुतिरूपः श्रुतिप्रीतः श्रुतीप्सितफलप्रदः ।
शुचिश्रुतः शान्तमूर्तिः श्रुतिश्रवणकीर्तनः ॥ 171॥
शमीमूलनिवासी च शमीकृतफलप्रदः ।
शमीकृतमहाघोरः शरणागतवत्सलः ॥ 172॥
शमीतरुस्वरूपश्च शिवमन्त्रङ्य़मुक्तिदः ।
शिवागमैकनिलयः शिवमन्त्रजपप्रियः ॥ 173॥
शमीपत्रप्रियश्चैव शमीपर्णसमर्चितः ।
शतोपनिषदस्तुत्यः शान्त्यादिगुणभूषितः ॥ 174॥
शान्त्यादिषड्गुणोपेतः शङ्खवाद्यप्रियस्तथा ।
श्यामरक्तसितज्योतिः शुद्धपञ्चाक्षरप्रियः ॥ 175॥
श्रीहालास्यक्षेत्रवासी श्रीमान्‌ शक्तिधरस्तथा ।
षोडशद्वयसम्पूर्णलक्षणः षण्मुखप्रियः ॥ 176॥
षड्गुणैश्वर्यसंयुक्तः षडङ्गावरणोज्वलः ।
षडक्षरस्वरूपश्च षट्चक्रोपरि संस्थितः ॥ 177॥
षोडशी षोडशान्तश्च षट्शक्तिव्यक्तमूर्तिमान्‌ ।
षड्भावरहितश्चैव षडङ्गश्रुतिपारगः ॥ 178॥
षट्कोणमध्यनिलयः षट्शास्त्रस्मृतिपारगः ।
स्वर्णेन्द्रनीलमकुटः सर्वाभीष्टप्रदायकः ॥ 179॥
सर्वात्मा सर्वदोषघ्नः सर्वगर्वप्रभञ्जनः ।
समस्तलोकाभयदः सर्वदोषाङ्गनाशकः ॥ 180॥
समस्तभक्तसुखदः सर्वदोषनिवर्तकः ।
सर्वनाशक्षमः सौम्यः सर्वक्लेशनिवारकः ॥ 181॥
सर्वात्मा सर्वदा तुष्टः सर्वपीडानिवारकः ।
सर्वरूपी सर्वकर्मा सर्वङ्य़ः सर्वकारकः ॥ 182॥
सुकृती सुलभश्चैव सर्वाभीष्टफलप्रदः ।
सूर्यात्मजः सदातुष्टः सूर्यवंशप्रदीपनः ॥ 183॥
सप्तद्वीपाधिपश्चैव सुरासुरभयङ्करः ।
सर्वसंक्षोभहारी च सर्वलोकहितङ्करः ॥ 184॥
सर्वौदार्यस्वभावश्च सन्तोषात्सकलेष्टदः ।
समस्तऋषिभिःस्तुत्यः समस्तगणपावृतः ॥ 185॥
समस्तगणसंसेव्यः सर्वारिष्टविनाशनः ।
सर्वसौख्यप्रदाता च सर्वव्याकुलनाशनः ॥ 186॥
सर्वसंक्षोभहारी च सर्वारिष्ट फलप्रदः ।
सर्वव्याधिप्रशमनः सर्वमृत्युनिवारकः ॥ 187॥
सर्वानुकूलकारी च सौन्दर्यमृदुभाषितः ।
सौराष्ट्रदेशोद्भवश्च स्वक्षेत्रेष्टवरप्रदः ॥ 188॥
सोमयाजि समाराध्यः सीताभीष्ट वरप्रदः ।
सुखासनोपविष्टश्च सद्यःपीडानिवारकः ॥ 189॥
सौदामनीसन्निभश्च सर्वानुल्लङ्घ्यशासनः ।
सूर्यमण्डलसञ्चारी संहारास्त्रनियोजितः ॥ 190॥
सर्वलोकक्षयकरः सर्वारिष्टविधायकः ।
सर्वव्याकुलकारी च सहस्रजपसुप्रियः ॥ 191॥
सुखासनोपविष्टश्च संहारास्त्रप्रदर्शितः ।
सर्वालङ्कार संयुक्तकृष्णगोदानसुप्रियः ॥ 192॥
सुप्रसन्नः सुरश्रेष्ठः सुघोषः सुखदः सुहृत्‌ ।
सिद्धार्थः सिद्धसङ्कल्पः सर्वङ्य़ः सर्वदः सुखी ॥ 193॥
सुग्रीवः सुधृतिः सारः सुकुमारः सुलोचनः ।
सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः ॥ 194॥
हरिश्चन्द्रसमाराध्यो हेयोपादेयवर्जितः ।
हरिश्चन्द्रेष्टवरदो हंसमन्त्रादि संस्तुतः ॥ 195॥
हंसवाह समाराध्यो हंसवाहवरप्रदः ।
हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ 196॥
हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः ।
हविर्होता हंसगतिर्हंसमन्त्रादिसंस्तुतः ॥ 197॥
हनूमदर्चितपदो हलधृत्‌ पूजितः सदा ।
क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रङ्य़ः क्षामवर्जितः ॥ 198॥
क्षुद्रघ्नः क्षान्तिदः क्षेमः क्षितिभूषः क्षमाश्रयः ।
क्षमाधरः क्षयद्वारो नाम्नामष्टसहस्रकम्‌ ॥ 199॥
वाक्येनैकेन वक्ष्यामि वाञ्चितार्थं प्रयच्छति ।
तस्मात्सर्वप्रयत्नेन नियमेन जपेत्सुधीः ॥ 200॥
 
॥ इति शनैश्चरसहस्रनामस्तोत्रं सम्पूर्णम्‌ ॥

 

Share this Story:

Follow Webdunia Hindi

अगला लेख

शनिदेव : कष्टों के दाता नहीं कल्याणकारी हैं...