सुधापानं ज्ञानं न च विपुलदानं न निगमो न यागो नो योगो न च निखिलभोगोपरमणम् । जपो नी नो तीर्थं व्रतमिह न चोग्रं त्वयि तपो विना भक्ति तेऽलं भवभयविनाशाय मधुहन् ॥29॥
नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो नमोऽसंश्लिष्टाय त्रिभुवननिविष्टाय च नमः। नमोविस्पष्टाय प्रणवपरिमृष्टाय च नमो नमस्ते सर्वात्मन्पुनरपि पुनस्ते मम नमः ॥30॥
क्व माहात्म्यं सीमोज्झितमविषयं वेदवचसां निभो ते मे चेतः क्व च विविधतापाहतमिदम्। मयेदं यत्किंचिद्नदितमथ बाल्येन तु गुरो गृहाणैतच्छुद्धार्पितमिह न हेयं हि महताम् ॥32॥